विषुवत्

सुधाव्याख्या

रात्रिश्च दिवा च रात्रिन्दिवम् । ‘अचतुर-'(५.४.७७) इत्यादिना साधु । तत् समं यस्मिन् तादृशे काले तुलामेषावच्छिन्ने । विषु साम्येऽव्ययम् । ततो मतुप् (५.२.९४) । 'संज्ञायाम्' (८.२.११) इति वत्वम् ।


प्रक्रिया

विषु + ङस् + मतुप् - तदस्यास्त्यस्मिन्निति मतुप्‌ 5.2.94
विषु + मतुप् - सुपो धातुप्रातिपदिकयोः 2.4.71
विषु + मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विषुवत् - संज्ञायाम् 8.2.11
विषुवत् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विषुव + नुम् + त् + सु - उगिदचां सर्वनामस्थानेऽधातोः 7.1.70
विषुव + न् + त् + सु - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विषुवान् + त् + सु - अत्वसन्तस्य चाधातोः 6.4.14
विषुवान् + त् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विषुवान् + त् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
विषुवान् - संयोगान्तस्य लोपः 8.2.23