विषुवम्

सुधाव्याख्या

‘वप्रकरणेऽन्यत्रापि (५.२.१०९) इत्युक्तेर्वः । तेन विषुवम् । ‘विषुवान् समरात्रि वासरः’ इति पुंस्काण्डे बोपालितः । विषुणोऽपि । विषु नानारूपं गमनं विष्वक् । तदस्यास्तीति विग्रहे 'विष्वगित्युत्तरपदलोपश्चाकृतसंधेः’ (५.२.१००) इति पामाद्यन्तर्गणसूत्रेण नप्रत्ययः । णत्वम् (८.४.२) ।


प्रक्रिया

विषु + ङस् + व - वप्रकरणे अन्येभ्योऽपि दृश्यते इति वक्तव्यम् (५.२.१०९) । वार्तिकम् ।
विषु + व - सुपो धातुप्रातिपदिकयोः 2.4.71
विषुव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विषुव + अम् - अतोऽम् 7.1.24
विषुवम् - अमि पूर्वः 6.1.107