अमरकोशः


श्लोकः

धातुर्मन:शिलाद्यद्रेः गैरिकं तु विशेषतः । निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धातु धातुः पुंलिङ्गः दधाति शोभाम् । तुन् उणादिः उकारान्तः
2 गैरिक गैरिकम् नपुंसकलिङ्गः गिरौ भवम् ठञ् तद्धितः अकारान्तः
3 निकुञ्ज निकुञ्जः पुंलिङ्गः, नपुंसकलिङ्गः कृत् अकारान्तः
4 कुञ्ज कुञ्जः पुंलिङ्गः, नपुंसकलिङ्गः कृत् अकारान्तः