निकुञ्जः

सुधाव्याख्या

निकुजेति । कावजानि । ‘जनी प्रादुर्भावे’ (दि० आ० से०) । ‘सप्तम्यां जनेर्डः (३.२.९७) । पृषोदरादिः (६.३.१०९) । कुञ्जन्त्यत्र । कुजि अव्यक्ते शब्दे’ (भ्वा० प० से०) । हलश्च’ (३.३.१२१) इति घञ् इति मुकुट: । तन्न । कुजि धातोर्धातुपाठेऽदर्शनात् । यत्तु न्यङ्क्वादेः’ इति कृत्वाभावः इति तदपि न । न्यङ्क्वादेः इत्यस्य कुत्वविधायकत्वात् । निरत्रोपसर्गान्तरव्यावृत्त्यर्थम् । कुञ्जिरावरणार्थो लोकात् इति क्षीरस्वामी । ‘कुञ्जोऽस्त्रियां निकुञ्जेऽपि हनौ दन्ते च दन्तिनाम्' इति विश्वः ।