गैरिकम्

सुधाव्याख्या

गैरीति । गिरौ भवम् इति विग्रहे गिरिकशब्दादण् (४.३.५३) । अव्यविकन्यायात् । अध्यात्मादित्वात् (वा ४.३.६०) ठञ् वा । गैरिकं तु विशेषेण धातुः । धातुशब्देनैव प्रसिद्धत्वात् गैरिकं धातुरुक्मयो:’ ॥