अमरकोशः


श्लोकः

हिमवान्निपधो विन्ध्यो माल्यवान्पारियात्रकः । गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हिमवत् हिमवान् पुंलिङ्गः हिममस्मिन्नस्ति । मतुप् तद्धितः तकारान्तः
2 निषध निषधः पुंलिङ्गः निषीदति । अच् कृत् अकारान्तः
3 विन्ध्य विन्ध्यः पुंलिङ्गः विरुद्धं ध्यायति । कृत् अकारान्तः
4 माल्यवत् माल्यवान् पुंलिङ्गः माल्याकारतास्यास्ति । मतुप् तद्धितः तकारान्तः
5 पारियात्रक पारियात्रकः पुंलिङ्गः परितो यात्रया दृश्यते । कन् तद्धितः अकारान्तः
6 गन्धमादन गन्धमादनम् नपुंसकलिङ्गः गन्धेन मादयति । तत्पुरुषः समासः अकारान्तः
7 हेमकूट हेमकूटः पुंलिङ्गः हेम्नः कूटो राशिः ॥ तत्पुरुषः समासः अकारान्तः