गन्धमादनम्

सुधाव्याख्या

गन्धेन मादयति । “मदी हर्षे’ (दि० प० से०) । णिजन्तः । नन्द्यादिः (३.१.१३४) । ‘स्याद्गन्धमादनो भृङ्गे गन्धके वानरान्तरे । स्त्री सुरायां नगे न स्त्री' + चिरजीवी द्विकाजयोः ।