अमरकोशः


श्लोकः

चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा । आवेशनं शिल्पिशाला प्रपा पानीयशालिका ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चैत्य चैत्यम् नपुंसकलिङ्गः चित्याया इदम् । ण्यत् कृत् अकारान्तः
2 आयतन आयतनम् नपुंसकलिङ्गः आयतन्तेऽत्र । ल्युट् कृत् अकारान्तः
3 वाजिशाला वाजिशाला स्त्रीलिङ्गः वाजिनां शाला ॥ तत्पुरुषः समासः आकारान्तः
4 मन्दुरा मन्दुरा स्त्रीलिङ्गः मन्दन्तेऽत्र । उरच् उणादिः आकारान्तः
5 आवेशन आवेशनम् नपुंसकलिङ्गः आविशन्त्यत्र । ल्युट् कृत् अकारान्तः
6 शिल्पिशाला शिल्पिशाला स्त्रीलिङ्गः शिल्पिनां शाला ॥ तत्पुरुषः समासः आकारान्तः
7 प्रपा प्रपा स्त्रीलिङ्गः प्रपिबन्त्यस्याम् । अङ् कृत् आकारान्तः
8 पानीयशालिका पानीयशालिका स्त्रीलिङ्गः पानीयस्य शाला । तत्पुरुषः समासः आकारान्तः