पानीयशालिका

सुधाव्याख्या

पानीयस्य शाला । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

पानीय + ङस् + शाला + सु - षष्ठी 2.2.8
पानीय + शाला - सुपो धातुप्रातिपदिकयोः 2.4.71
पानीयशाला + सु + कन् - संज्ञायां कन् 5.3.75
पानीयशाला + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
पानीयशाला + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पानीयशालाक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
पानीयशालाक + आ - चुटू 1.3.7, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पानीयशालाका - अकः सवर्णे दीर्घः 6.1.101
पानीयशालिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
पानीयशालिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पानीयशालिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पानीयशालिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68