चैत्यम्

सुधाव्याख्या

चैत्यमिति । चीयते । चित्याग्निचित्ये च' (३.१.१३२) इति साधुः । चित्याया इदम् । तस्येदम्’ (४.३.१२०) इत्यण् । तस्येदम् इति विग्रहप्रदर्शनं मुकुटस्य प्रमादः । चित्यायाः स्त्रीलिङ्गत्वात् । 'चैत्यमायतने बुद्धबिम्बेऽप्युद्देश्यपादपे इति रुद्रः ॥