अमरकोशः


श्लोकः

वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम् । चतु:शालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वास वासः पुंलिङ्गः वसन्त्यत्र । घञ् कृत् अकारान्तः
2 कुटी कुटी पुंलिङ्गः, स्त्रीलिङ्गः कुटति कुटिलीभवति । कृत् ईकारान्तः
3 शाला शाला स्त्रीलिङ्गः शलन्त्यत्र । घञ् कृत् आकारान्तः
4 सभा सभा स्त्रीलिङ्गः सह भान्त्यत्र । कृत् आकारान्तः
5 सञ्जवन सञ्जवनम् नपुंसकलिङ्गः सञ्जवन्त्यत्र । ल्युट् कृत् अकारान्तः
6 चतुःशाल चतुःशालम् नपुंसकलिङ्गः चतस्रः शालाः समाहृताः । अकारान्तः
7 पर्णशाला पर्णशाला स्त्रीलिङ्गः पर्णनिर्मिता शाला । आकारान्तः
8 उटज उटजः पुंलिङ्गः, नपुंसकलिङ्गः उटाज्जायते । तत्पुरुषः समासः अकारान्तः