कुटी

सुधाव्याख्या

कुटति कुटिलीभवति । ‘कुट कौटिल्ये’ (तु० प० से०) । 'इगुपध-' (३.१.१३५) इति कः । 'इगुपधात् कित्' (उ० ४.१२०) इति, इनि कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् वा । 'कुट: कोट्टे शिलाकुटे घटे गेहे कुटी सुरा । चित्रगुच्छा कुम्भदासी’ इति हैमः । (‘कूटः कोटे पुमानस्त्री घटे, स्त्रीपुंसयोर्गृहे । कुटी स्यात्कुम्भदास्यां तु सुरायां चित्रगुच्छके-' इति मेदिनी) ॥