अमरकोशः


श्लोकः

कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् । भरण्यं भरणं मूल्यं निर्वेश: पण इत्यपि ॥ ३८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कर्मण्या कर्मण्या स्त्रीलिङ्गः कर्मणा सम्पद्यते । यत् तद्धितः आकारान्तः
2 विधा विधा स्त्रीलिङ्गः कर्माणि विधीयन्तेऽनया । अङ् कृत् आकारान्तः
3 भृत्या भृत्या स्त्रीलिङ्गः भ्रियन्ते कर्मकरा अनया । क्यप् कृत् आकारान्तः
4 भृति भृतिः स्त्रीलिङ्गः भ्रियन्ते कर्मकरा अनया । क्तिन् कृत् इकारान्तः
5 भर्मन् भर्म नपुंसकलिङ्गः भ्रियतेऽनेन । मनिन् उणादिः नकारान्तः
6 वेतन वेतनम् नपुंसकलिङ्गः वीयतेऽनेन । तनन् उणादिः अकारान्तः
7 भरण्य भरण्यम् नपुंसकलिङ्गः भरणे साधु । यत् तद्धितः अकारान्तः
8 भरण भरणम् नपुंसकलिङ्गः भ्रियतेऽनेन । ल्युट् कृत् अकारान्तः
9 मूल्य मूल्यम् नपुंसकलिङ्गः मूलेनानाम्यम् । यत् तद्धितः अकारान्तः
10 निर्वेश निर्वेशः पुंलिङ्गः निर्विश्यते । घञ् कृत् अकारान्तः
11 पण पणः पुंलिङ्गः पण्यते । अण् कृत् अकारान्तः