पणः

सुधाव्याख्या

- पण्यते । 'नित्यं पणः परिमाणे' (३.३.६६) इत्यप् । ‘पुंसि-' (३.३.११८) इति घो वा । ‘पणो वराटमाने स्यान्मूल्ये कार्षापणे | ग्लहे । क्रय्यशाकादिके द्यूतव्यवहारे भृतौ धने' (इति मेदिनो) ॥