निर्वेशः

सुधाव्याख्या

- निर्विश्यते । अनेन वा । ‘विश प्रवेशने' (तु० प० से०) । ‘अकर्तरि च' (३.३.१९) इति ‘हलश्च’ (३.३.१२१) इति वा घञ् । 'निर्वेशस्तु पुमान्भोगे वेतने मूच्र्छनेऽपि च' (इति मेदिनी) ॥