अमरकोशः


श्लोकः

वीतंसस्तूपकरणं बन्धने मृगपक्षिणाम् । उन्माथः कूटयन्त्रं स्याद्वागुरा मृगबन्धनी ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वीतंस वीतंसः पुंलिङ्गः वितंस्यते । घञ् कृत् अकारान्तः
2 उन्माथ उन्माथः पुंलिङ्गः उन्मथ्यतेऽनेन । घञ् कृत् अकारान्तः
3 कुटयन्त्र कुटयन्त्रम् नपुंसकलिङ्गः कूटस्वरूपं यन्त्रम् ॥ तत्पुरुषः समासः अकारान्तः
4 वागुरा वागुरा स्त्रीलिङ्गः अवा गुरते । कृत् आकारान्तः
5 मृगबन्धनी मृगबन्धनी स्त्रीलिङ्गः मृगो बध्यतेऽनया । ल्युट् कृत् ईकारान्तः