वागुरा

सुधाव्याख्या

- वेति । अवा गुरते । ‘गुरी हिंसायाम्' (तु० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । ‘वष्टि भागुरि-' इत्यकारलोपः ॥


प्रक्रिया

धातुः -


गुरीँ हिंसायाम्
अवा + गुर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अवा + गुर् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
अवा + गुर् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वागुर – वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
वागुरा (टाप्) - अजाद्यतष्टाप्‌ 4.1.4
वागुरा (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68