वीतंसः

सुधाव्याख्या

- वीति । वितंस्यते । ‘तसि अलंकारे' (चु० प० से०) । घञ् (३.३.१९) । ‘उपसर्गस्य-' (६.३.१२२) इति दीर्घः । ‘वीतंसो बन्धनोपाये मृगाणामपि पक्षिणाम् । तेषामेव च विश्वासहेतोः प्रावरणेऽपि च' इति विश्वः (मेदिनी) ॥