अमरकोशः


श्लोकः

शुनको भषक: श्वा स्यादलर्कस्तु स योगितः । श्वा विश्वकद्रुर्मृगयाकुशलः सरमा शुनी ॥ २२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शुनक शुनकः पुंलिङ्गः शुनति । क्वुन् उणादिः अकारान्तः
2 भषक भषकः पुंलिङ्गः भषति । क्वुन् उणादिः अकारान्तः
3 श्वन् श्वन् पुंलिङ्गः श्वयति । कनिन् उणादिः नकारान्तः
4 अलर्क अलर्कः पुंलिङ्गः अलम् अर्यते । घञ् कृत् अकारान्तः
5 विश्वकदृ विश्वकदृः पुंलिङ्गः विश्वकं सर्वं द्रवति । डु कृत् ऋकारान्तः
6 सरमा सरमा स्त्रीलिङ्गः सरति । अम बाहुलकात् आकारान्तः
7 शुनी शुनी स्त्रीलिङ्गः शुनति । ङीष् स्त्रीप्रत्ययः ईकारान्तः