अलर्कः

सुधाव्याख्या

- अलेति । अलम् अर्यते । ‘अर्क स्तवने’ (चु० प० से०) । अर्च्यते वा । ‘अर्च पूजायाम्’ (भ्वा० प० से०) । घञ् (३.३.१९) । शकन्ध्वादिः (वा० ६.१.९४) । ‘अलर्को धवलार्के स्याद्योगोन्मादितकुक्कुरे' इति विश्वः (मेदिनी) ॥ योगो मत्ततोपायो जातोऽस्य । तारकादित्वात् (५.२.३६) इतच् । यद्वा योग्यन्ते स्म । ‘युगि वर्जने' (भ्वा० प० से०) । ण्यन्तः । अनित्यत्वान्न नुम् । क्तः (३.२.१०२) ॥


प्रक्रिया

धातुः -


अर्कँ स्तवने
अर्क् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अलम् + अर्क् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अलर्कः – शकन्ध्वादिषु