विश्वकद्रुः

सुधाव्याख्या

- श्वेति । विश्वकं सर्वं द्रवति । ‘द्रु गतौ’ (भ्वा० प० अ०) । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः । यद्वा विश्वं कन्दति । ‘कदि आह्वाने' (भ्वा० प० से०) । जवादिः (उ० ४.१०२) । ‘विश्वकट्ठस्त्रिषु खले ध्वानाखेटशुनोः पुमान्’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


द्रु गतौ
विश्वक + अम् + दु + डु – वा ३.२.१८०
विश्वक + द्रु + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
विश्वक + द्रु + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
विश्वक + द्र् + उ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
विश्वकद्रु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विश्वकद्रु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विश्वकद्रु + रु - ससजुषो रुः 8.2.66
विश्वकद्रु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विश्वकद्रुः - खरवसानयोर्विसर्जनीयः 8.3.15