अमरकोशः


श्लोकः

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च । चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमा: ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दक्ष दक्षः पुंलिङ्गः दक्षते । अच् कृत् अकारान्तः
2 चतुर चतुरः पुंलिङ्गः चतति, चत्यते वा । उरच् उणादिः अकारान्तः
3 पेशल पेशलः पुंलिङ्गः पेशं लाति । कृत् अकारान्तः
4 पटु पटुः पुंलिङ्गः पाटयति । उणादिः उकारान्तः
5 सूत्थान सूत्थानः पुंलिङ्गः सुष्ठु उत्थानमुद्योगोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 उष्ण उष्णः पुंलिङ्गः उष्णत्वं शीघ्रकारित्वमस्यास्ति । अच् तद्धितः अकारान्तः
7 चण्डाल चण्डालः पुंलिङ्गः चण्डते । आलच् उणादिः अकारान्तः
8 प्लव प्लवः पुंलिङ्गः प्लवते । अच् कृत् अकारान्तः
9 मातङ्ग मातङ्गः पुंलिङ्गः मतङ्गस्यापत्यम् । अण् तद्धितः अकारान्तः
10 दिवाकीर्ति दिवाकीर्तिः पुंलिङ्गः दिवा कीर्तिरस्य । बहुव्रीहिः समासः इकारान्तः
11 जनंगम जनंगमः पुंलिङ्गः अधार्मिकाञ्जनान् गच्छति, जनेभ्यो गच्छति, वा । खच् कृत् अकारान्तः