प्लवः

सुधाव्याख्या

- प्लवते । ‘प्लुङ् गतौ' (भ्वा० आ० अ०) । अच् (३.१.१३४) । ‘प्लवः प्लक्षे प्लुतौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ भेककभेलयोः । क्रमनिम्नमहीभागे कुलके जलवायसे । (जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि' इति हैमः । ‘प्लवः स्यात्प्लुवने भेले भेकेऽवौ श्वपचे कपौ । जलकाके च कुलके प्रवणे पर्कटीद्रुमे । कारण्डवाख्यविहगे शब्दे प्रतिगतौ पुमान्) । कैवर्तीमुस्तके गन्धतृणेऽपि स्यान्नपुंसकम्’ (इति मेदिनी) ॥