अमरकोशः


श्लोकः

भृत्ये दासेयदासेरदासगोप्यकचेटका: । नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भृत्य भृत्यः पुंलिङ्गः भ्रियते । क्यप् कृत् अकारान्तः
2 दासेर दासेरः पुंलिङ्गः ढ्रक् तद्धितः अकारान्तः
3 दासेय दासेयः पुंलिङ्गः दास्या अपत्यम् । ढक् तद्धितः अकारान्तः
4 दास दासः पुंलिङ्गः दंसयति दंस्यते वा उणादिः अकारान्तः
5 गोप्यक गोप्यकः पुंलिङ्गः गुप्यते । ण्यत् कृत् अकारान्तः
6 चेटक चेटकः पुंलिङ्गः चेट्यते । वुन् उणादिः अकारान्तः
7 नियोज्य नियोज्यः पुंलिङ्गः नियुज्यते । ण्यत् कृत् अकारान्तः
8 किंकर किंकरः पुंलिङ्गः किञ्चित् कुत्सितं वा करोति । अच् कृत् अकारान्तः
9 प्रैष्य प्रैष्यः पुंलिङ्गः प्रेष्यते । ण्यत् कृत् अकारान्तः
10 भुजिष्य भुजिष्यः पुंलिङ्गः भुङ्क्ते स्वाम्युच्छिष्टम् । किष्यन् उणादिः अकारान्तः
11 परिचारक परिचारकः पुंलिङ्गः परिचरति । ण्वुल् कृत् अकारान्तः