अमरकोशः


श्लोकः

भृतको भृतिभुक्कर्मकरो वैतनिकोऽपि सः । वार्तावहो वैवधिकः भारवाहस्तु भारिकः ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भृतक भृतकः पुंलिङ्गः भ्रियते स्म । क्तः कृत् अकारान्तः
2 भृतिभुज् भृतिभुज् पुंलिङ्गः भृतिं वेतनं भुङ्क्ते । क्विप् कृत् जकारान्तः
3 कर्मकर कर्मकरः पुंलिङ्गः कर्म करोति । कृत् अकारान्तः
4 वैतनिक वैतनिकः पुंलिङ्गः वेतनेन जीवति । ठक् तद्धितः अकारान्तः
5 वार्तावह वार्तावहः पुंलिङ्गः वार्ताया वहः ॥ तत्पुरुषः समासः अकारान्तः
6 वैवधिक वैवधिकः पुंलिङ्गः विवधं वीवधं वा वहति । ठक् तद्धितः अकारान्तः
7 भारवाह भारवाहः पुंलिङ्गः भारं वहति । अण् कृत् अकारान्तः
8 भारिक भारिकः पुंलिङ्गः भारोऽस्ति वाह्यत्वेनास्य । ठन् तद्धितः अकारान्तः