वैवधिक

सुधाव्याख्या

- विवधं वीवधं वा वहति । ‘विभाषा विवधात्' (वा० ४.४.१७) इति ठन् । पक्षे ठक् ॥


प्रक्रिया

धातुः -


विवध + ठक् – वा ४.४.१७
विवध + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
विवध + इक् + अ - ठस्येकः 7.3.50
विवध् + इक - यस्येति च 6.4.148
वैवधिकः - किति च 7.2.118