अमरकोशः


श्लोकः

जावालः स्यादजाजीव: देवाजीवस्तु देवलः । स्यान्माया शाम्बरी मायाकारस्तु प्रातिहारिकः ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जावाल जावालः पुंलिङ्गः जवमलति, आलाति वा । अण् कृत् अकारान्तः
2 अजाजीव अजाजीवः पुंलिङ्गः अजा आजीवो जीविकास्य ॥ बहुव्रीहिः समासः अकारान्तः
3 देवाजीव देवाजीवः पुंलिङ्गः देवैराजीवितुं शीलमस्य । बहुव्रीहिः समासः अकारान्तः
4 देवल देवलः पुंलिङ्गः देवान् जीविकार्थे लाति । कृत् अकारान्तः
5 माया माया स्त्रीलिङ्गः विश्वं माति यस्याम्, मिमीते, वा । उणादिः आकारान्तः
6 शाम्बरी शाम्बरी स्त्रीलिङ्गः शम्बराख्यदैत्यस्येदम् । अण् तद्धितः ईकारान्तः
7 मायाकार मायाकारः पुंलिङ्गः मायां करोति । अण् कृत् अकारान्तः
8 प्रातिहारिक प्रातिहारिकः पुंलिङ्गः प्रतिहरणम् । ठक् तद्धितः अकारान्तः