प्रातिहारिकः

सुधाव्याख्या

- प्रतिहरणम् । ‘हृञ्’ (भ्वा० उ० अ०) । भावे घञ् (३.३.१८) । प्रतिहारो व्याजः प्रयोजनमस्य । ‘प्रयोजनम्' (५.१.१०९) इति ठक् ॥


प्रक्रिया

धातुः -


हृञ् हरणे
हृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्रति + हृ + घञ् -भावे 3.3.18
प्रति + हृ + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्रति + हार् + अ - अचो ञ्णिति 7.2.115
प्रतिहार + ठक् - प्रयोजनम् 5.1.109
प्रतिहार + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्रतिहार + इक् + अ - ठस्येकः 7.3.50
प्रतिहार् + इक - यस्येति च 6.4.148
प्रतिहारिक - तद्धितेष्वचामादेः 7.2.117
प्रतिहारिक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रतिहारिक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रतिहारिक + रु - ससजुषो रुः 8.2.66
प्रतिहारिक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रतिहारिकः - खरवसानयोर्विसर्जनीयः 8.3.15