अमरकोशः


श्लोकः

क्षुरिमुण्डिदिवाकीर्तिनापितान्तावसायिनः । निर्णेजकः स्याद्रजकः शौण्डिको मण्डहारकः ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्षुरिन् क्षुरिन् पुंलिङ्गः क्षुरोऽस्यास्ति । इनि तद्धितः नकारान्तः
2 मुण्डिन् मुण्डिन् पुंलिङ्गः मुण्डं करोति । णिनि कृत् नकारान्तः
3 दिवाकीर्ति दिवाकीर्तिः पुंलिङ्गः दिवा कीर्तिरस्य । बहुव्रीहिः समासः इकारान्तः
4 नापित नापितः पुंलिङ्गः न पियति स्म । तत्पुरुषः समासः अकारान्तः
5 अन्तावसायिन् अन्तावसायिन् पुंलिङ्गः नखा नामन्तमवसातुं शीलमस्या । णिनि कृत् नकारान्तः
6 निर्णेजक निर्णेजकः पुंलिङ्गः निर्णेनेक्ति । ण्वुल् कृत् अकारान्तः
7 रजक रजकः पुंलिङ्गः रजति । क्वुन् उणादिः अकारान्तः
8 शौण्डिक शौण्डिकः पुंलिङ्गः शुण्डा सुरा पण्यमस्य । ठक् तद्धितः अकारान्तः
9 मण्डहारक मण्डहारकः पुंलिङ्गः मण्डं सुराग्ररसं हरति । अण् कृत् अकारान्तः