अन्तावसायी

सुधाव्याख्या

- नखानामन्तमवसातुं शीलमस्या । ‘षोऽन्तकर्मणि' (दि० प० अ०) । ‘षै क्षये' (भ्वा० प० अ०) वा । ‘सुपि-' (३.२.७८) इति णिनिः । ‘आतो युक्-' (७.३.३३) । (‘अन्तावसायी श्वपचे मुनिभेदे च नापिते' इति मेदिनी) ॥