नापितः

सुधाव्याख्या

- न पियति स्म । ‘पि गतौ’ (तु० प० अ०) । ‘गत्यर्था-' (३.४.७२) इति क्तः । न—अपितः । निषेधार्थकेन नशब्देन ‘सुप्सुपा' (२.१.४) इति समासः । यद्वा नापनम् । ‘आप्लृ व्याप्तौ (स्वा० प० अ०) । घञ् (३.३.१८) । नापो जातोऽस्य । ‘तदस्य संजातम् (५.२.३६) इतीतच् ॥