अमरकोशः


श्लोकः

नाडिंधम: स्वर्णकार: कलादो रुक्मकारके । स्याच्छाङ्खिकः काम्बविकः शौल्विकस्ताम्रकुट्टकः ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नाडिन्धम नाडिन्धमः पुंलिङ्गः नाडीं वंशनलीं धमति । खश् कृत् अकारान्तः
2 स्वर्णकार स्वर्णकारः पुंलिङ्गः स्वर्णं करोति । अण् कृत् अकारान्तः
3 कलाद कलादः पुंलिङ्गः कलामादत्ते । कृत् अकारान्तः
4 रुक्मकारक रुक्मकारकः पुंलिङ्गः रुक्मं करोति । अण् कृत् अकारान्तः
5 शाङ्खिक शाङ्खिकः पुंलिङ्गः शङ्खः शिल्पमस्य । ठक् तद्धितः अकारान्तः
6 काम्बविक काम्बविकः पुंलिङ्गः कम्बुः शिल्पमस्य । ठक् तद्धितः अकारान्तः
7 शौल्बिक शौल्बिकः पुंलिङ्गः शुल्वघट्टनं शिल्पमस्य । ठक् तद्धितः अकारान्तः
8 ताम्रकुट्टक ताम्रकुट्टकः पुंलिङ्गः ताम्रं कुट्टयति । अण् कृत् अकारान्तः