ताम्रकुट्टकः

सुधाव्याख्या

- ताम्रं कुट्टयति । ‘कुट्ट छेदने’ (चु० प० से०) । अण् (३.२.१) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


कुट्टँ छेदने
कुट्ट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ताम्र + अम् + कुट्ट् + अण् - कर्मण्यण् 3.2.1
ताम्र + कुट्ट् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
ताम्र + कुट्ट् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
काम्रकुट्ट + कन् – ज्ञापि ५.४.५
ताम्रकुट्टक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ताम्रकुट्टक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ताम्रकुट्टक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ताम्रकुट्टक + रु - ससजुषो रुः 8.2.66
ताम्रकुट्टक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ताम्रकुट्टकः - खरवसानयोर्विसर्जनीयः 8.3.15