अमरकोशः


श्लोकः

संधानं स्यादभिषवः किण्वं पुंसि तु नग्नहू: । कारोत्तरः सुरामण्डः आपानं पानगोष्ठिका ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संधान संधानम् नपुंसकलिङ्गः संधीयते । ल्युट् कृत् अकारान्तः
2 अभिषव अभिषवः पुंलिङ्गः अभिषूयते । अप् कृत् अकारान्तः
3 किण्व किण्वम् नपुंसकलिङ्गः कणनम् । बन् उणादिः अकारान्तः
4 नग्नहू नग्नहू पुंलिङ्गः ह्वानम्, हूयते वा । तत्पुरुषः समासः ऊकारान्तः
5 कारोत्तर कारोत्तरः पुंलिङ्गः कारेण क्रियया उत्तरः । तत्पुरुषः समासः अकारान्तः
6 सुरामण्ड सुरामण्डः पुंलिङ्गः सुराया मण्डः ॥ तत्पुरुषः समासः अकारान्तः
7 आपान आपानम् नपुंसकलिङ्गः आ सम्भूय पिबन्त्यत्र । ल्युट् कृत् अकारान्तः
8 पानगोष्ठिका पानगोष्ठिका स्त्रीलिङ्गः पानस्य गोष्ठी । तत्पुरुषः समासः आकारान्तः