अभिषवः

सुधाव्याख्या

- अभिषूयते । ‘षुञ् अभिषवे' (स्वा० उ० अ०) । ‘ऋदोरप्’ (३.३.५७) । भावे वा । ‘भवेदभिषवः स्नाने मद्यसंधानयज्ञयोः’ इति विश्वः (मेदिनी) ॥