अमरकोशः


श्लोकः

देश: प्राग्दक्षिणः प्राच्यः उदीच्यः पश्चिमोत्तरः । प्रत्यन्तो म्लेच्छदेश: स्यान्मध्यदेशस्तु मध्यमः ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्राच्य प्राच्यः पुंलिङ्गः प्राच्यां भवः । यत् तद्धितः अकारान्तः
2 उदीच्य उदीच्यः पुंलिङ्गः उदीच्यां भवः । यत् तद्धितः अकारान्तः
3 प्रत्यन्त प्रत्यन्तः पुंलिङ्गः प्रतिगतोऽन्तम् । तत्पुरुषः समासः अकारान्तः
4 म्लेच्छदेश म्लेच्छदेशः पुंलिङ्गः म्लेच्छानां देशः । तत्पुरुषः समासः अकारान्तः
5 मध्यदेश मध्यदेशः पुंलिङ्गः मध्यश्चासौ देशश्च । तत्पुरुषः समासः अकारान्तः
6 मध्यम मध्यमः पुंलिङ्गः मध्ये भवः । तद्धितः अकारान्तः