प्रत्यन्तः

सुधाव्याख्या

प्रत्यन्त इति । प्रतिगतोऽन्तम् । अत्यादयः क्रान्ताद्यर्थे (वा० २.२.१८) इति समासः


प्रक्रिया

प्रति + अन्त + सु - अत्यादयः क्रान्ताद्यर्थे द्वितीयया (2.2.18) । वार्तिकम् ।
प्रति + अन्त - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रत्यन्त - इको यणचि 6.1.77
प्रत्यन्त + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रत्यन्त + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रत्यन्त + रु - ससजुषो रुः 8.2.66
प्रत्यन्त + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रत्यन्तः - खरवसानयोर्विसर्जनीयः 8.3.15