मध्यमः

सुधाव्याख्या

मध्ये भवः । ‘मध्यान्म:’ (४.३.८) हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः” (२.२१) इति मनुः । विनशनं कुरुक्षेत्रम् । द्वे मध्यदेशस्य ।