अमरकोशः


श्लोकः

सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा । गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही ॥ ३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सर्वंसहा सर्वंसहा स्त्रीलिङ्गः सर्वं सहते । तत्पुरुषः समासः आकारान्तः
2 वसुमती वसुमती स्त्रीलिङ्गः वसु धनमस्त्यस्याम् । मतुप् तद्धितः ईकारान्तः
3 वसुधा वसुधा स्त्रीलिङ्गः वसु दधाति । तत्पुरुषः समासः आकारान्तः
4 उर्वी उर्वी स्त्रीलिङ्गः ऊर्णोति, ऊर्णूयते वा । कु उणादिः ईकारान्तः
5 वसुन्धरा वसुन्धरा स्त्रीलिङ्गः वसु धारयति । तत्पुरुषः समासः आकारान्तः
6 गोत्रा गोत्रा स्त्रीलिङ्गः गोत्राः शैलाः सन्त्यस्याम् । अच् तद्धितः आकारान्तः
7 कु कुः स्त्रीलिङ्गः कुवते । डु कृत् उकारान्तः
8 पृथिवी पृथिवी स्त्रीलिङ्गः प्रथते । षिवन् उणादिः ईकारान्तः
9 पृथ्वी पृथ्वी स्त्रीलिङ्गः प्रथते । उणादिः ईकारान्तः
10 क्ष्मा क्ष्मा स्त्रीलिङ्गः क्षमते । अच् उणादिः आकारान्तः
11 अवनि अवनिः स्त्रीलिङ्गः अवति अव्यते वा । अनि उणादिः इकारान्तः
12 मेदिनी मेदिनी स्त्रीलिङ्गः मेदमस्त्यस्याम् । इनि तद्धितः ईकारान्तः
13 मही मही स्त्रीलिङ्गः मह्यते । उणादिः ईकारान्तः