मही

सुधाव्याख्या

मह्यते । 'मह पूजायाम्’ चुरादावदन्तः । ण्यन्तात् 'अच इः (उ० ४.१३९) । महिः । ‘कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् । यत्तु-मह्यन्ते भूतान्यस्याम्, मह्यते, वा । पुंसि (३.३.११८) इति घः । गौरादिङीष् (४.१.४१) – इति मुकुट: । तन्न । ‘हलश्च’ (३.३.१२१) इति घञ् प्रसङ्गात् । कर्मणि घस्याप्रसङ्गाच्च । ‘करणाधिकरणयोः अनुवर्तनात् । ’वीचिः पक्तिर्महिः केलिरित्याद्या ह्रस्वदीर्घयोः’ इति वाचस्पतिः । यद्वा-महीयते । 'महीङ् पूजायाम्’ कण्ड्वादियगन्तः । ‘क्विप् च' (३.२.७५) इति क्विप्यल्लोपयलोपौ । 'कृदिकारात्-' (ग० ४.१.४५) इति ङीष् । तदभावे विसर्ग: इति कश्चित् । तन्न ‘कारग्रहणान्न' इत्युक्तत्वात् । ’मही नद्यन्तरे भूमौ मह उद्भवते जसोः' इति हैम: ॥