क्ष्मा

सुधाव्याख्या

क्षमते । ‘क्षमूष् सहने’ । ‘क्षमेरुपधालोपश्च’ (उ० ५.६५) इत्यच् । यत्तु-पृषोदरादित्वात् (६.३.१०९) अल्लोपः । बाहुलकान्मन् टिलोपश्च-इति मुकुट: । तन्न । उक्तरीत्या निर्वाहात् ॥ पचाद्यचि (३.१.१३४) क्षमा च ॥