अमरकोशः


श्लोकः

शाद्वल: शादहरिते सजम्बाले तु पङ्किलः । जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शाद्वल शाद्वलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शीयते । कृत् अकारान्तः
2 पङ्किल पङ्किलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जम्बालेन पङ्केन सह । इलच् तद्धितः अकारान्तः
3 जलप्राय जलप्रायः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जलं प्रायं यत्र । अकारान्तः
4 अनूप अनूपः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अनुगता आपोऽत्र । तत्पुरुषः समासः अकारान्तः
5 कच्छ कच्छः पुंलिङ्गः कं जलं छ्यति परिच्छिनत्ति । तत्पुरुषः समासः अकारान्तः