कच्छः

सुधाव्याख्या

तथाविधो जलप्रायः । कं जलं छ्यति परिच्छिनत्ति । ‘छो छेदने’ (दि० प० अ०) । ‘आतोऽनुप-’ (३.२.३) इति कः । ‘कच्छमनूपम्’ इति बोपालितः । (‘कच्छो द्रुभेदे नौकाङ्गेऽनूपप्राये तटेऽपि च । कच्छास्तु देशे, कच्छा स्यात्परिधानापराञ्चले । चीर्यां वाराह्याम् इति हैमः) । ‘त्रिषु' इत्यस्य बाधनार्थं ‘पुँसि’ इति ॥