शाद्वलः

सुधाव्याख्या

शाद्वल इति । शीयते । शद्लृ शातने’ (भ्वा० तु० प० अ०) । ज्वलादित्वात् (३.१.१४०) ण: । शीयतेऽस्मिन्निति वा । ‘हलश्च’ (३.३.१२१) इति घञ् । शादो बालतृणमस्मिन् । ड्वलच् (४.२.८८) (१) शादैर्बालतृणैर्हरितः ।