अमरकोशः


श्लोकः

गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । शोणरत्नं लोहितक: पद्मरागोऽथ मौक्तिकम् ॥ ९२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गारुत्मत गारुत्मतम् नपुंसकलिङ्गः गरुत्मतो जातत्वात् अण् तद्धितः अकारान्तः
2 मरकत मरकतम् नपुंसकलिङ्गः मरकं तरन्त्यनेन । कृत् अकारान्तः
3 अश्मगर्भ अश्मगर्भः पुंलिङ्गः अश्मनो गर्भः ॥ तत्पुरुषः समासः अकारान्तः
4 हरिन्मणि हरिन्मणिः पुंलिङ्गः हरिद्वर्णो मणिः । तत्पुरुषः समासः इकारान्तः
5 शोणरत्न शोणरत्नम् नपुंसकलिङ्गः शोणं च तद्रत्नं च ॥ तत्पुरुषः समासः अकारान्तः
6 लोहितक लोहितकः पुंलिङ्गः लोहितमेव । कन् तद्धितः अकारान्तः
7 पद्मराग पद्मरागः पुंलिङ्गः पद्ममिव रागोऽस्य । बहुव्रीहिः समासः अकारान्तः
8 मौक्तिक मौक्तिकम् नपुंसकलिङ्गः मुक्तैव । ठक् तद्धितः अकारान्तः