अमरकोशः


श्लोकः

नीवी परिपणो मूलधने लाभोऽधिकं फलम् । परिदानं परीवर्तो नैमेयनिमयावपि ॥ ८० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नीवी नीवी स्त्रीलिङ्गः नितरामिन्वति । इन् उणादिः ईकारान्तः
2 परिपण परिपणः पुंलिङ्गः परिपण्यते वृद्ध्यर्थं प्रयुज्यते । कृत् अकारान्तः
3 मूलधन मूलधनम् नपुंसकलिङ्गः मूलं च तद्धनं च ॥ तत्पुरुषः समासः अकारान्तः
4 लाभ लाभः पुंलिङ्गः लभ्यते । घञ् कृत् अकारान्तः
5 अधिक अधिकम् नपुंसकलिङ्गः अध्यारूढम् । निपातनात् अकारान्तः
6 फल फलम् नपुंसकलिङ्गः फलति । अच् कृत् अकारान्तः
7 परिदान परिदानम् नपुंसकलिङ्गः परिवृत्य दानम् । तत्पुरुषः समासः अकारान्तः
8 परीवर्त परीवर्तः पुंलिङ्गः परिवर्तनम् । घञ् कृत् अकारान्तः
9 नैमेय नैमेयः पुंलिङ्गः निमानम् । यत् तद्धितः अकारान्तः
10 निमय निमयः पुंलिङ्गः निमीयते । अच् कृत् अकारान्तः