फलम्

सुधाव्याख्या

फलति । ‘फल निष्पत्तौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘फलं जातीफले सस्ये हेतूत्थे व्युष्टिलाभयोः' । (त्रिफलायां च कक्कोले, प्रियङ्गौ तु फली स्मृता)' इति विश्वः (मेदिनी) । ‘फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः । फली फलिन्याम्' इति हैमः ॥