नीवी

सुधाव्याख्या

नीति । नितरामिन्वति । ‘इवि प्रीणने' (भ्वा० प० से०) । ‘अनित्यमागमशासनम्' इति न नुम् । ‘इगुपधात्कित्' (उ० ४.१२०) इतीन् । ‘कृदिकारात्-' (ग० ४.१.४५) इति ङीष् ।-‘निपूर्वाद्व्येञो निरी च' इति डिः । ‘कृदिकारात्' (ग० ४.१.४५) इति ङीष् । व्यो यलोपः नेर्दीर्घः । नीवी-इत्याह मुकुटः । नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परिपणे' इति हैमः ॥