अमरकोशः


श्लोकः

चिरसूता वष्कयिणी धेनुः स्यान्नवसूतिका । सुव्रता सुखसंदोह्या पीनोध्नी पीवरस्तनी ॥ ७१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चिरप्रसूता चिरप्रसूता स्त्रीलिङ्गः चिरं सूता । तत्पुरुषः समासः आकारान्तः
2 बष्कयिणी बष्कयिणी स्त्रीलिङ्गः वष्कते । इनि तद्धितः ईकारान्तः
3 धेनु धेनुः स्त्रीलिङ्गः धीयते । नु उणादिः उकारान्तः
4 नवसूतिका नवसूतिका स्त्रीलिङ्गः नवं सूतं प्रसवोऽस्याः । बहुव्रीहिः समासः आकारान्तः
5 सुव्रता सुव्रता स्त्रीलिङ्गः शोभनं व्रतमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
6 सुखसंदोह्या सुखसंदोह्या स्त्रीलिङ्गः सुखेन सन्दुह्यते । ण्यत् कृत् आकारान्तः
7 पीनोघ्नी पीनोघ्नी स्त्रीलिङ्गः पीनमूधोऽस्याः । बहुव्रीहिः समासः ईकारान्तः
9 पीवरस्तनी पीवरस्तनी स्त्रीलिङ्गः पीवरः स्तनोऽस्याः । बहुव्रीहिः समासः ईकारान्तः