धेनुः

सुधाव्याख्या

धयिति । धीयते । ‘धेट् पाने' (भ्वा० प० से०) । ‘धेट इच्च' (उ० ३.३४) इति नुः ।-‘धेन्वादयश्च-' इति मुकुटस्त्वपाणिनीयः । ‘धेनुर्गोमात्रके दोग्ध्र्याम्’ इति हैमः ॥